निबन्ध (रचना) 10
संस्कृत में वाक्यों की रचना
दसवीं कक्षा में किसी सामान्य विषय पर संस्कृत में आठ वाक्य लिखने होते हैं। विद्यार्थियों को शुद्ध संस्कृत में सरल और छोटे-छोटे वाक्य लिखने चाहिए। इसके लिए सबसे पहले छात्रों को हिन्दी में वाक्य लिखकर उनकी संस्कृत बनाकर क्रम से लिख लेना चाहिए। निबन्ध-रचना के समय निम्नलिखित बातों पर ध्यान देना चाहिए –
- वाक्य सरल एवं छोटे-छोटे होने चाहिए।
- भावों को सोचकर संक्षेप में लिखना चाहिए।
- अपनी बात की पुष्टि के लिए एक-दो श्लोक भी उदाहरण के रूप में दिये जा सकते हैं।
- विषय को स्पष्ट करने के लिए पूर्ण कथानकों को देना उचित नहीं है। कथानकों से सम्बन्धित नामोल्लेख मात्र करना पर्याप्त होता है।
- यदि किसी वाक्य के अनुवाद में कठिनाई का अनुभव हो तो उस वाक्य को परिवर्तित करके ऐसा बना लीजिए, जिसका शुद्ध अनुवाद किया जा सके।
- निबन्ध लिखवाने का उद्देश्य मात्र यह जानना है कि आप संस्कृत में अपने विचार प्रकट कर सकते हैं या नहीं। इसमें तथ्यों के औचित्य-अनौचित्य, सत्यता-असत्यता, अनुभूतता अन नुभूतता का कोई प्रभाव नहीं पड़ता।
दसवीं कक्षा के पाठ्यक्रम में निर्धारित (23 जुलाई, 2011 के उत्तर प्रदेश गजट के अनुसार) निबन्ध निम्नलिखित हैं –
- विद्या
- सदाचारः
- परोपकारः
- सत्सङ्गतिः
- अहिंसा परमोधर्मः
- मातृभूमिः
- वसुधैव कुटुम्बकम्
- राष्ट्रिय-एकता
- अनुशासनम्
- राष्ट्रपिता महात्मागांधी
- संस्कृतभाषायाः महत्त्वम्
- भारतीय कृषकः
- हिमालयः
- तीर्थराज प्रयागः
- वनसम्पत्
- पर्यावरणम्
- परिवार-कल्याणम्
- राष्ट्रपक्षी मयूरः
- यौतुकम्
- दूरदर्शनम्
- क्रिकेटक्रीडनम्।
यहाँ पर कुछ अन्य महत्त्वपूर्ण निबन्ध भी छात्रों की सुविधा व बोध के लिए दिये जा रहे हैं। इन्हीं के आधार पर छात्रों को अन्य विषयों पर भी निबन्ध लिखने का अभ्यास करना चाहिए।
1. विद्या [2010, 12, 13]
[सम्बद्ध शीर्षकः–विद्वान् सर्वत्र पूज्यते, विद्या विहीनः पशुः (2007), विद्यायाः महत्त्वम् (2009,11), विद्याधनं सर्वधनं प्रधानम् (2010,12,13), विद्या ददाति विनयम् (2010,14), विद्या-महिमा (2011,15)]
- अस्मिन् संसारे विद्या एव सर्वप्रधानं धनमस्ति।
- विद्याधनं चौरोऽपि चोरयितुं न शक्नोति, नृपः अपहर्तुं न शक्नोति।
- विद्या व्ययतो वृद्धिमायाति, सञ्चयात् च क्षयमायाति।
- विद्या कल्पलता इव सर्वंकीर्थसाधिका अस्ति।
- विद्या माता इव रक्षति, पिता इव हिते मियुङ्क्ते, कीन्ती इवै खेदम् अपमयति।
- विद्या सर्बसुखानां परमं कारणम् अस्ति।
- विद्येयी यावज्जीवं तृप्तिर्भवति।
- विद्ययाऽमृतम् अश्नुते।
- विद्या विनयं ददाति, विनयात् पात्रताम्, पात्रतायाः धनम्, धनाद् धर्म, ततः सुखं प्राप्नोति मनुष्यः।
- विदुषः पुरुषस्य सर्वत्र सम्मानः भवति।
- राजा तु स्वदेशे पूज्यते, परन्तु विद्वान् सर्वत्र पूज्यते।
- रूपयौवनसम्पन्नोऽपि विद्याहीनः जनः न शोभते।
- राजसु विद्यैव पूज्यते, धनं न पूज्यते।
- विद्याविहीनः नर: पशुतुल्यः भवति।
- अत: सर्वे नराः स्वपुत्रान् पुत्रींश्च पाठयेयुः।
2. सत्सङ्गतिः [2006, 07,08, 09, 10, 11, 14, 15)
[सम्बद्ध शीर्षकः-सत्सङ्गतिः कथय किं न करोति पुंसाम् ]
- सत्पुरुषाणां सङ्गति सत्सङ्गतिः कथ्यते।
- सज्जनांनां सङ्गतिः सुखकरी भवति।
- सत्सङ्गत्या जनः उन्नतिपदं प्राप्नोति।
- सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, पापं दूरी करोति, दिक्षु च यशः तनोति।
- अत: सत्सङ्गति एवं जनानां सर्वकार्यसाधिका भवति।
- सत्सङ्गत्याः प्रभावेन दुष्टाः सज्जनाः भवन्ति, मूर्खश्च प्रवीणतां याति।
- ऋषीणां सङ्गत्या व्याधः वाल्मीकिः महर्षिपदम् अलभत।
- काञ्चन-संसर्गात् काचोऽपि मारकतिं द्युतिं धत्ते, पुष्पसङ्गत्या कीटोऽपि महतां शिर: आरोहति।
- सत्सङ्गतिः जनानाम् असाध्यानि कार्याणि अपि साधयति।
- मनुष्यः सभ्यतायाः संस्कृतेः च शिक्षाम् अपि सत्सङ्गेन एव लभते।
- अस्माकं वेदशास्त्रेषु अपि सत्सङ्गस्य महिमा वर्णितः अस्ति।
- अत: वयं दुष्टानां सङ्गं त्यक्त्वा सदैव सतां सङ्गतिः कुर्याम।
3. सदाचारः [2006,07,08, 12, 13]
[सम्बद्ध शीर्षक:–आचारः परमो धर्मः, सदाचारवान्नरः[2008]]
- सताम् आचारः सदाचारः कथ्यते।
- सज्जना: यद् आचरन्ति, तदेव आचरणं सदाचारः कथ्यते।
- सदाचारी जनः सर्वैः सह शिष्टतापूर्वकम् आचरति।
- सः सत्यं वदति, नित्यं मातापितरौ अभिवादयति, गुरुजनानाम् आदरं करोति, परोपकारं च करोति
- मानव: सज्जनवत् आचरणेन सदाचारी, धार्मिकः विनीतः च भवति।
- सदाचारयुक्तः जनः सर्वत्र आदरं लभते।
- सदाचारेणैव बुद्धिः वर्धते, यश: प्रसरति, दुर्गुणाः दूरीभवन्ति, हृदये सद्भाव: जागर्ति आयुश्च वर्धते।
- सदाचारः जनान् उन्नतपदे आरोपयति।
- सदाचारिणः पापकर्मणिः प्रवृत्तिः न भवति, बुद्धिः निर्दोषा भवति सः च जनानां हितचिन्तने प्रवृत्तः भवति।
- अतः महर्षिभिः ‘आचारः परमो धर्मः’ इति उक्तम्।
- समस्त धर्मग्रन्थेषु आचारस्य महिमा वर्णितास्ति।
- आचारात् जनः आयुः, लक्ष्मीं, कीर्ति च प्राप्नोति।
- सदाचारपालनेन हरिश्चन्द्रः, दधीचिः, गान्धिमहोदयश्च यशः शरीरेण अद्यापि जीवन्ति।
- अत: वयं सदा सदाचारिणः भवेम।
4. परोपकारः [2006,07,08, 10, 11, 12, 13, 14, 15]
[सम्बद्ध शीर्षकः–परोपकारः पुण्याय (2007), परोपकाराय सतां विभूतयः(2010]]
- परेषाम् उपकारः परोपकारः कथ्यते।
- स्वार्थं परित्यज्य अन्येषां कल्याणेच्छया यत् किञ्चित् क्रियते तत् परोपकारः कथ्यते।
- परोपकारिणः जनाः परोपकारेणैव प्रसन्नाः भवन्ति।
- परोपकारस्य भावना मनुष्येषु एव न, देवेषु, पशु-पक्षिवृक्षादिषु अपि च भवति।
- प्रकृतिः अपि परोपकारस्य एव शिक्षां ददाति।
- नद्यः स्वयम् एव जलं न पिबन्ति, वृक्षाः स्वयं फलानि न खादन्ति, किन्तु तासां जलं, तेषां फलानि च परोपकाराय एव भवन्ति।
- परोपकारिणः हृदये सन्तोष: आनन्दः च जायते।
- परोपकारेण जनः सर्वाः सम्पदः लभते।
- परोपकाराय एव नरपति: शिविः कपोताये स्वमांसम् अयच्छत्, दानवीरः कर्णः कवचकुण्डलौ दत्तवान्, रन्तिदेवः ” क्षुधितोऽपि स्वभोजनं चाण्डालाय, प्रायच्छत्।
- शास्त्रेषु परोपकारस्य महत्त्वं वर्णितम्-‘परोपकारः पुण्याय’, ‘उपकाराज्जायते सुखम् च इति।
5. सत्यस्य महिमा
[सम्बद्ध शीर्षकः-सत्यमेव जयते (2010), सत्यम् (2011)]
- यद् वस्तु यथा अस्ति, तस्य तथैव कथनं सत्यमस्ति।
- भगवता मनुना कथितेषु दशसु धर्मसु एकतमः धर्म: सत्यमस्ति।
- त्रिषु लोकेषु सत्यात्परः धर्मः नास्ति।
- यः सत्यं वदति, सः निर्भीको भवति, सः पापकर्मसु न प्रवर्तते।
- सत्यवादिनः पुरुषाः समाजे आदरं प्राप्नुवन्ति।
- ‘सर्वसत्ये प्रतिष्ठितम्’ इत्यनुसारेण सत्यमेव लोकस्य आधारोऽस्ति।
- सत्यवचनात् नरस्य कल्याणं भवति।
- सत्यवादिनि मनुष्ये सर्वे विश्वासं कुर्वन्ति।
- सत्यवादिनः सरलतया कार्याणि साधयन्ति।
- महान् खलु सत्यस्य महिमा अस्ति , अतएव महापुरुषाः स्वप्राणैरपि सत्यं रक्षन्ति।
- महाराजः दशरथः सत्यस्य रक्षायै स्व प्राणान् ददौ।
- सत्यस्य रक्षायै एव राजा हरिश्चन्द्रः महान्ति कष्टानि असहत्।
- सत्यबलेनैव महात्मागान्धि स्वदेशं स्वतन्त्रं कृतवान्।
- अतः सर्वैरपि सदा सत्यं भाषणीयम्।
6. अहिंसा परमो धर्मः [2007,08]
[सम्बद्ध शीर्षकः-अहिंसा]
- परेषां हिंसनं पीडनम् एव हिंसा भवति, एतद् विपरीता भावना अहिंसा भवति।
- मनसा वाचा कर्मणा कथमपि कस्यचित् कष्टं न देयम् इति एव अहिंसा।
- मनुना निर्दिष्टेषु दशसु धर्मलक्षणेषु अहिंसा एव प्रथम: धर्मः अस्ति।
- अहिंसापालकाः कारुणिकाः दयावन्तश्च भवन्ति।
- अहिंसया एव आत्मा सुखम् अनुभवति मनश्च परां शान्ति लभते।
- अहिंसाबलेन शत्रवोऽपि मित्राणि भवन्ति।
- सर्वाणि कार्याणि अहिंसया एव सिध्यन्ति अतएव मुनिभिः ‘अहिंसा परमो धर्मः’ इति स्वीकृतः।
- जैनबौद्धधर्मी अहिंसाधर्मे परमौ निष्ठावन्तौ।
- महात्मागान्धिमहोदयः अहिंसाधर्मस्य परमोपासकः आसीत्।
- सः अहिंसाशस्त्रेण भारतं स्वतन्त्रमकरोत्।
- अहिंसायां महती शक्तिः वर्तते, अनया अधिकृताः जनाः सदा वशवर्तिनः भवन्ति।
- अतः सर्वैः अहिंसा धर्मः पालनीया।
7. उद्यमः [2013,14]
[सम्बद्ध शीर्षकः–उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः, उद्यमेन हि सिध्यन्ति कार्याणि (2011, 12), उद्योगः, उद्योग-महिमा (2010), परिश्रमः (2013), उद्योगः सर्वसाधनम् (2014)]
- अस्मिन् संसारे सर्वे जनाः सुखमिच्छन्ति, पुरुषार्थेन एव ते सुखं प्राप्नुवन्ति।
- उद्यमेन एव सर्वाणि कार्याणि सिध्यन्ति।
- यदि मानव: उद्योगं न कुर्यात्, तस्य किमपि कार्यं न सिध्येत्।
- सिंह: महान् बलवान् भवति, सोऽपि उद्यम विना स्वोदरमपि पूरयितुं न समर्थः।
- उद्योगिनां पुरुषाणां पाश्र्वे लक्ष्मीः स्वयमायाति।
- उद्योगबलेनैव पाण्डवाः नष्टमपि राज्यम् उपलब्धवन्तः।
- कालिदासः उद्योगं कृत्वा एव कविकुलगुरुः अभवत्।
- लोकमान्यतिलक-गोखले-महात्मागान्धिप्रभृतिभिः देशभक्तैः पुरुषार्थेनैव भारतभूमिः पारतन्त्र्याद् विमुक्ता कृता।
- शास्त्रेषु उद्यमस्य महिमा वर्णित:-नास्ति उद्यमसमो बन्धुः, उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः च इति।
- निर्बला पिपीलिका उद्योगस्य बलेन एव स्वजीवनं यापयति।
- अत: वयं जीवनसौख्याय उद्योगिनः भवेम।
8. व्यायामः [2007]
[सम्बद्ध शीर्षकः-स्वास्थ्य महत्त्वम्, शरीरमाद्यं खलु धर्मसाधनम्, विद्यालयेषु स्वास्थ्य-शिक्षायाः आवश्यकता]
- शरीरमाद्यं खलु धर्मसाधनम्’ इत्यनुसारेणं सर्वधर्माणां प्रथमं साधनं स्वस्थं शरीरम् अस्ति।
- शरीरं तदैव किञ्चित्कर्तुं शक्नोति यदा तत् स्वस्थं भवति।
- स्वास्थ्यरक्षायाः सर्वोत्तमः उपाय: व्यायामः अस्ति।
- व्यायामेन शरीरं बलवत्, पुष्टं, स्वस्थं च भवति।
- शरीरस्य सर्वाङ्गीणविकासाय व्यायाम: आवश्यकीयः।
- स्वस्थे शरीरे एवं स्वस्थः मनः वसति; अतः व्यायामशीलस्य मनः सदा प्रसन्नं भवति।
- व्यायामाः क्रीडनं, तरणं, कूर्दनं, धावनं, भ्रमणम् इत्यादयः अनेकविधाः भवन्ति।
- व्यायामेन शरीरस्य बुद्धेश्च विकासो भवति।
- अतः सर्वैः स्वशरीरस्य स्वास्थ्यरक्षार्थं व्यायामः अवश्यं करणीयः।
- स्वस्थं शरीरं जीवनसौख्यं प्रदातुं शक्नोति।
9. संस्कृतभाषायाः महत्त्वम् [2006, 11, 12, 13, 14, 15]
[सम्बद्ध शीर्षक:–संस्कृताध्ययनस्य लाभः,संस्कृतस्य-उपयोगिता (2006), सुभारती (2007). राष्ट्रभाषा-संस्कृतम् (2010), संस्कृत नाम दैवी वाक् (2011) संस्कृतवाङ्मयम् (2010), संस्कृतस्य महत्त्वम् (2006,08), संस्कृतभाषा (2012,14), देववाणी (2014)]
- संस्कृतभाषा संसारस्य प्राचीनतमा भाषा अस्ति।
- व्याकरणादि दोषरहिता भाषा संस्कृतभाषेति कथ्यते।
- पुरा सर्वे जनाः संस्कृतभाषायाम् एव वदन्ति स्म।
- सर्वे प्राचीनाः ग्रन्थाः; यथा—चत्वारो वेदाः, ब्राह्मणग्रन्थाः, उपनिषद्-ग्रन्थाः, पुराणानि, षड्दर्शनग्रन्थाः, संस्कृतभाषायामेव लिखिताः सन्ति।
- आदिकविः महर्षि वाल्मीकि रामस्य चरित्ररूपं रामायणम्, महर्षिः व्यासश्च विश्वप्रसिद्धं ग्रन्थं महाभारतं संस्कृते एव अलिखत्।
- संस्कृतभाषा एव भारतदेशम् ऐक्यसूत्रे बध्नाति।
- यथा जननी स्वदुग्धदानेन स्वसन्तत्या: पोषणं करोति, तथैव संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी अस्ति; अत: भारतीयाः इमां मातृवत् पूजयन्ति।
- ये भारतीया: हिन्दीभाषायाः विरोधं कुर्वन्ति, ते कदापि संस्कृतभाषायाः विरोधं न कुर्वन्ति।
- विशालं मनोज्ञं च अस्याः साहित्यं, परिपूर्ण अस्याः व्याकरणं, श्रुतिमधुरः शब्दभण्डारः, ललिता सामासिकी पदावली च अस्याः महत्त्वं प्रकटयन्ति।
- संस्कृतभाषायाः प्रचारेण छात्राणाम् अनुशासनहीनता दूरीकर्तुं शक्यते।
- विश्वस्य सुखाय शान्तये चापि संस्कृतस्य प्रचार: लाभप्रदः भविष्यति।
- अतः सर्वैः संस्कृतभाषा अवश्यं पठनीया अनुशीलनीया च।
10. सन्मित्रम्
- सुखे दु:खे च सम्पत्तौ विपत्तौ च कस्यामपि अवस्थायां यः स्वमित्रं न त्यजति, स एव सन्मित्रमस्ति।
- सन्मित्रं स्वमित्रं दुःखितं दृष्ट्वा कदापि त्यक्तुं न शक्नोति।
- आवश्यकतासमये स: धनं दत्वा तस्य सहायतां करोति।
- सः तस्य अवगुणान् न प्रकटयति, किन्तु गुणान् एव प्रकाशयति।
- सन्मित्रं स्वमित्रं पापात् निवारयति, हिताय योजयते, आपद्गतं न त्यजति।
- मित्राय आवश्यकतायां धनं ददाति।
- तस्य गोप्याः वार्ताः गोपयति, गुणान् च प्रकटीकरोति।
- यत् अविचार्य प्रियं कुर्यात् तत् मित्रं सन्मित्रमुच्यते।
- अस्मिन् संसारे सन्मित्रस्य प्राप्ति: दुर्लभः अस्ति। ये समृद्धिसमये सन्निहिताः भवन्ति, परन्तु विपदि आपदि च साहाय्यभूताः विरला एव भवन्ति।
- ये जनाः सन्मित्रं प्राप्नुवन्ति ते एव पुण्यवन्तः धन्याश्च सन्ति।
11. प्रभातवर्णनम् [2009]
- प्रातः सूर्य: उदयति, चन्द्रः च अस्तं गच्छति।
- इदानीं तमः नश्यति, प्रकाशः च भवति।
- प्रात:समये सरोवरेषु कमलानि विकसन्ति, कुमुदानि च निमीलन्ति।
- प्रात: समय: उलूकान् दुःखीकरोति, चक्रवाकान् च मुदितान् करोति।
- सर्वे मनुष्याः प्रात:काले आलस्यं त्यक्त्वा, शयनादुत्तिष्ठन्ति स्वकार्येषु च निरताः भवन्ति।
- पक्षिण: वृक्षेषु कलरवं कुर्वन्ति, मधुपाः च पुष्पेषु गुञ्जन्ति, मकरन्दं च पिबन्ति।
- प्रात: शीतलः सुगन्धश्च पवनः मन्दं वहति।
- जनाः प्रात:काले भ्रमणाय गच्छन्ति।
- प्रातः भ्रमणेन तेषां मतिः विमला भवति।
- प्रात:समये मन्दिरेषु भक्तानां सङ्गीतमिश्रः ध्वनिः आकाशे प्रसरित दिशः च मुखरीकरोति।
12. उद्यानम्
[सम्बद्ध शीर्षकः–उपवनम्]
- उद्याने बहुविधाः वृक्षा: लताश्च भवन्ति।
- वृक्षेषु लतासु च विविधानि बहुवर्णानि पुष्पाणि मधुराणि च पक्वानि फलानि शोभन्ते।
- उद्याने वृक्षेषु खगाः मधुरं कूजन्ति।
- उद्याने पुष्पेषु भ्रमरा: गुञ्जन्ति मकरन्दं च पिबन्ति।
- तत्र शीतलः सुगन्धश्च पवनः मन्द-मन्दं सञ्चरति।
- जनाः प्रात:काले भ्रमणाय उद्यानं गच्छन्ति।
- तत्र बालकाः क्रीडन्ति प्रसन्नाः च भवन्ति।
- मालाकारः तत्र वृक्षान्, पादपान्, सुपुष्पितांश्च लताः जलेन सिञ्चति, पुष्पाणि चिनोति।
- उद्याने वृक्षाणां छायासु श्रान्ताः पथिकाः पशवः च विश्राम कुर्वन्ति।
- सर्वत्र रम्याणि दृश्याणि भवन्ति।
- उद्यानै: पर्यावरण-शुद्धिरपि सम्भवति।
13. ग्राम-वर्णनम्
[सम्बद्ध शीर्षकः–ग्राम्य-जीवनम्, स्वग्रामवर्णनम्, ग्रामः]
- भारतदेश: ग्रामाणां देशः अस्ति।
- ग्राम्यजीवनस्य पृथगेव स्ववैशिष्ट्यं भवति।
- ग्रामवासिनां जीवनं सरलं निश्चलं च भवति। तेषां जीवने प्रदर्शनस्य कृत्रिमतायाः च अभावः भवति।
- ग्रामेषु नगराणां कृत्रिमं चाकचिक्यं न भवति, अपितु तत्र स्वाभाविकी शान्ति, प्राकृतिक सौन्दर्यं भवति।
- ग्रामेषु शस्यश्यामलानि क्षेत्राणि, मनोहराणि उपवनानि, कलकल-निनादं कुर्वत्यः नद्यश्च मानवान् मोहयन्ति।
- ग्रामेषु स्वच्छः वायुः, निर्मलं कूपजलं, नवं नवनीतं, दुग्धं दधि च मिलन्ति, यैः जनाः नीरोगाः पुष्टा: बलवन्तः च भवन्ति।
- ग्रामेषु जनाः सदैव उद्यमिनः भवन्ति।
- ग्रामीणानां भोजनं शुद्धं सात्त्विकं च भवति, येन ते सात्त्विकवृत्तयः भवन्ति।
- ग्रामेषु षट्सु ऋतुषु अपूर्वा शोभा सर्वत्र प्रसरति।
- ग्रामीणा: स्वयमेव मनोरञ्जनार्थम् अभिनयादिकं महापुरुषाणां चरित्रश्रवणाय वा समवेताः भवन्ति, आनन्दं चानुभवन्ति।
- तत्र शिक्षायाः अभावः वर्तते, शिक्षायाः प्रचारे कृते तेषां जीवनं स्वर्गतुल्यं भविष्यति।
14. भारतवर्षस्य महत्त्वम्
[सम्बद्ध शीर्षक:–मातृभूमिः (2006), जन्मभूमिः (2010), भारतवर्षः (2008, 09), अस्माकं देशः (2006, 10, 11, 13, 14, 15),जननीजन्मभूमिश्च स्वर्गादपि गरीयसी, स्वदेशः]
- संसारे माता मातृभूमिश्च द्वे एवं सर्वोत्तमे स्तः।
- यथा अस्माकं जननी अस्मान् लालयति, तथैव अस्माकं जन्मभूमिरपि स्वजलेन, स्ववायुना, स्वमृत्तिकया च अस्मान् पोषयति।
- अतएव स्वदेशं प्रति अस्माकं हृदये स्वाभाविक: आदरः भवति।
- अस्माकं जन्मभूमि: भारतवर्षमस्ति।
- पर्वतराजः हिमालयः अस्याः मुकुटः अस्ति, समुद्रश्च अस्याः पादान् प्रक्षालयति।
- अत्र गङ्गायमुनादायः अनेकाः महानद्यः कृषकाणां क्षेत्राणि सिञ्चन्ति।
- अस्माकं देश: सर्वेषु देशेषु सुन्दरतमः प्राचीनतमः च अस्ति।
- संसारे सर्वप्रथमं सभ्यतायाः प्रादुर्भावः, प्राचीनतमानां वेदानां रचना, लेखन-कला-काव्यनाटकादीनां च उत्पत्तिः सर्वप्रथमं भारते एवाभूत्।
- अनेकाभिः महानदीभिः, प्रचुरैः फलैः, शस्यश्यामलैः क्षेत्रैः सुन्दरतमायाम्। अस्यां भूमौ जन्मग्रहणाय देवता अपि स्पृह्यन्ति।
- भारतवर्षेऽस्मिन् अनेके महर्षयः, भक्ताः, चक्रवर्तिनृपतयः, विद्वांस धर्मप्रवर्तकाः, कवयः, राजनीतिज्ञाः नारी मूर्धन्याः च अभवन्।
- अयम् अस्माकं देश: सर्वथा प्रशंसनीयः अस्माभिः पूजनीयश्च।
- वयं सुजलां, सुफलां, मलयजशीतलां, शस्यश्यामलां मातरं, भारत मातरं नमामः।
15. हिमालयः [2006]
- भारतवर्षस्य उत्तरस्यां दिशि एव स्थितः उच्चतमः पर्वतः हिमालयः अस्ति।
- अस्य शिखराणि सदैव हिमेन आच्छादितानि तिष्ठन्ति, अतएव अयं हिमस्य आलयः ‘हिमालयः’ इति कथ्यते।
- अयं सर्वेषां पर्वतानाम् उच्चतमः अस्ति; अतः ‘पर्वतराजः अपि कथ्यते।
- एवरेस्ट’ इति अस्य उच्चतमं शिखरम् अस्ति।
- अस्यैव कैलासशिखरम् भगवतः शिवस्य निवासभूमिः अस्ति।
- अस्य कन्दरासु तपः कुर्वन्तः मुनयः परां सिद्धि प्राप्नुवन्ति।
- हिमालयस्य प्रदेशेषु अति सुन्दराणि तीर्थस्थानानि सन्ति।
- कश्मीरप्रदेशः अस्यैव प्रदेशेषु स्थितः स्व सौन्दर्येण ‘भूस्वर्गः’ इति कथ्यते।
- हिमालये अनेकाः औषधयः, वनस्पतयः, वनानि, बहुपयोगीनि च काष्ठानि प्राप्यन्ते।
- गङ्गा-यमुना-ब्रह्मपुत्रादयः महानद्यः अस्मात्पर्वतात् निर्गत्य स्वेन पवित्रेण जलेन भारतभुवं सिञ्चन्ति।
- महाकविना कालिदासेन हिमालयं ‘देवतात्मा’ इत्युक्तम्।
16. भारतीयः कृषकः
[सम्बद्ध शीर्षकः–कृषकः (2014)]
- भारतदेश: कृषिप्रधानाः देश: अस्ति।
- कृषे: उन्नतौ एव भारतस्य उन्नतिः निहितास्ति।
- कृषका एवं भारतस्य प्राणभूताः सन्ति।
- कृषका: ग्रामेषु वसन्ति।
- कृषिकार्यमेव तेषां मुख्योद्योगः।
- अत: भारतस्य अर्थव्यवस्थायां कृषकाणां महत्त्वपूर्ण स्थानमस्ति।
- तथापि भारतीयः कृषक: अशिक्षितः अति निर्धनः च अस्ति।
- कृषक: अस्माकं कृते अन्नम् उत्पादयति।
- सः प्रात:काले उत्थाय कठिनं श्रमं करोति।
- स दारुणे आतपे, शरीरकम्पे शीते वर्षासु च घोरं श्रमं करोति।
- तस्य पत्नी पुत्राश्च कृषिकायें तस्य सहायता कुर्वन्ति।
- भारतीय-कृषकस्य पावें कृषेः वैज्ञानिक साधनानाम् अभावः वर्तते। अतः तस्य आर्थिक दशा शोचनीया अस्ति।
- सम्प्रति कृषे: कृषकस्य च उन्नतये भारतीयशासनं प्रयत्नशीलं वर्तते।
- कालान्तरे तस्य दशा सन्तोषप्रदा भविष्यति।
17. वर्षावर्णनम्
[सम्बद्ध शीर्षकः–वर्षर्तुः, वर्षाः]
- भारतवर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः चेति षड् ऋतवः भवन्ति।
- एषु ऋतुषु वर्षतः अतिमहत्त्वमस्ति।
- ग्रीष्मादनन्तरं वर्षर्तुः समागच्छति।
- वर्षर्ती मेघाः आकाशे आच्छादिताः भवन्ति, प्रचुरमात्रायां जलं च वर्षन्ति।
- वर्षतः आगमनेन सन्तप्तः संसारः शान्ति लभते, सन्तप्ताः भूमयः सरसाः भवन्ति, आतपेन दग्धाः वनस्पतयः पुन जीवनं प्राप्नुवन्ति।
- तडागः, नद्यः, कृपाश्च जलेन परिपूर्णाः भवन्ति।
- प्रसन्नाः कृषकाः क्षेत्रेषु नवानि अन्नबीजानि वपन्ति।
- अस्याः ऋतोः विचित्रं दृश्यं भवति। गगनं मेधैः आच्छादितं भवति, दर्दुराणां कोलाहल:, झिल्लीनां झंकृतं, दंशमशकादीनां ‘भन्–भन्’ स्वरं च श्रूयन्ते।
- मयूरा: मेघान् दृष्ट्वा नर्तितुम् आरभन्ते।
- सर्वत्र मनोहारिणी हरीतिमा भवति।
- इयम् ऋतु: कृषये लाभप्रदा अस्ति।
18. ग्रीष्म-वर्णनम्
- भारतवर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्त: शिशिरः चेति षड् ऋतवः भवन्ति।
- वसन्तस्य अनन्तरं ग्रीष्मस्य आगमनं भवति।
- अस्य आरम्भसमये हरितानि धान्यानि पक्वानि भवन्ति।
- शनैः शनैः ग्रीष्मेण सह कष्टानि अपि वर्द्धन्ते।
- सूर्यरश्मयः अग्निस्फुलिङ्गान् वर्षन्ति।
- तडाग-नदी-कूपानां जलं न्यूनतां गच्छति।
- जनाः पशवः पक्षिणश्च पिपासाकुलिताः भवन्ति।
- शीतलं पेयादिकं, शीतला च छाया एव रुचिकरा भवन्ति।
- श्रान्ताः पथिकाः स्वेदक्लिन्नाः सन्तः वृक्षाणां शीतलां छायाम् एव अन्विष्यन्ति।
- भूमिगृहेषु, कन्दरासु, वृक्षाणामधः एव च उष्णताभाव: प्रतीयते।
19. वसन्तर्तुः [2009]
- भारतवर्षे एकस्मिन वर्षे षड् ऋतवः भवन्ति।
- सर्वेषु ऋतुषु वसन्तर्तुः सर्वोत्तमः अस्ति, अतएव अयं ‘ऋतुराज:’ कथ्यते।
- वसन्ते सौन्दर्यस्य अभिनवं साम्राज्यं समुल्लसति।
- वसन्ते पक्षिकुलं दिशि दिशि धावति कूजति नृत्यति च।
- पलाशे रक्तपुष्पाणि विकसन्ति।
- तरुषु कोमलानि किसलयानि पुष्पाणि च मन: आकर्षन्ति।
- पिका: आग्नमञ्जरीं दृष्ट्वा हर्षातिरेकेन गायन्ति कूजन्ति च।
- कृषका: नवशस्यानि दृष्ट्वा प्रसन्नाः भवन्ति।
- बहवः जनाः पीतानि वस्त्राणि धारयन्ति।
- अस्मिन् ऋतौ होलिकोत्सवः सम्पद्यते।
- अस्मिन् ऋतौ नाधिकः शीतः नाधिक: उष्णता भवति।
- सर्वतः क्षेत्रेषु सर्षपपुष्पाणि विकसन्ति।
- तडागेषु विविधानि वर्णानि कमलानि विकसन्ति।
- वसन्ते भ्रमणेन मन: प्रफुल्लं शरीरं च स्फूर्तियुक्तं भवति।
- अयं ऋतु: अस्मभ्यम् आनन्दस्य उल्लासस्य च सन्देशं ददाति।
20. दीपमालिका
[सम्बद्ध शीर्षकः–दीपावल्युत्सवः, दीपावलिः (2006, 12, 14)]
- दीपमालिका हिन्दूनां चतुषु मुख्योत्सवेषु एकः पवित्रतम: प्रमुख: महत्त्वपूर्णश्च उत्सवः वर्तते।
- अयम् उत्सवः कार्तिकमासस्य अमावस्यायां तिथौ सम्पादितो भवति।
- अस्य उत्सवस्य प्रक्रिया अनेकै: अहोभिः पूर्वं प्रारभते।
- एतत् ब्रूयते यद् अस्मिन् दिने श्रीरामचन्द्रः रावणं हत्वा लक्ष्मण-सीताभ्यां सह अयोध्या प्रत्यागच्छत्। अत: अयोध्यावासिनः दीपानां मालया तेषां सोल्लासं स्वागतम् अकुर्वन्।
- अस्मिन् दिवसे जना: गृहाणि आपणानि च सुधया लेपयन्ति।
- आपणवीथय: सज्जिताः भवन्ति।
- गृहे गृहे दीपा: पङ्क्तिबद्धाः प्रज्वाल्यन्ते।
- जनाः मित्राणां सम्बन्धिनां गृहेषु मिष्टान्नानि प्रेषयन्ति।
- रात्रौ लक्ष्म्याः पूजनं भवति।
- प्रसन्नाः बालका: विविधानि क्रीडनकानि प्राप्य, मिष्टान्नानि च भुक्त्वा इतस्तत: उच्छलन्ति।
- अस्मिन् उत्सवे गृहाणि स्वच्छानि भवन्ति, दीपालोकेन रोगकीटाणव: नश्यन्ति, जनेषु स्नेहस्य सञ्चारः भवति।
- केचन मूर्खा: अस्मिन् दिने द्यूतक्रीडया अस्योत्सवस्य पवित्रतां दूषयन्ति।
- वस्तुत: दीपावली ज्ञानस्य सम्पन्नतायाः आराधना च उत्सवः अस्ति।
- भारतीय-साहित्ये दीपावल्या: विस्तृत वर्णनम् अस्ति।
21. होलिकोत्सवः [2013,14]
[सम्बद्ध शीर्षकः-रङ्गपर्वः ]
- होलिकोत्सवः हिन्दूनां चतुषु मुख्योत्सवेषु एक: प्रमुखः उत्सवः अस्ति।
- अयमुत्सवः फाल्गुनमासस्य पूर्णिमायाः दिने सम्पादितो भवति।
- होलिकोत्सवः वसन्तपञ्चमीत: प्रारम्भो भवति।
- अस्य उत्सवस्य समय वसन्त ऋतुः समुल्लसति, अत: वातावरणं समशीतोष्णं भवति।
- एवं श्रूयते यत् होलिका नाम एका राक्षसी आसीत्। सा हिरण्यकशिपोः आदेशात् प्रह्लादनामकं बालकं निजाङ्के निधाय प्रज्वलितम् अग्नि प्रविष्टा। परम् ईशकृपया होलिका दग्धा जाता, प्रह्लादश्च सुरक्षित: अतिष्ठत्। तस्या स्मृतौ एवं अयम् उत्सवः भवति।
- जनाः एकस्मिन् स्थाने काष्ठानां सञ्चयं कुर्वन्ति, रात्रौ च होलिकायाः प्रतिमां विधाय तां दहन्ति।
- होलिकोत्सवे जनाः अतीव आनन्दमग्नाः भवन्ति, गायन्ति, वाद्यन्ति नृत्यन्ति च।
- अग्रिमे दिवसे सर्वे मित्राणां गृहेषु यान्ति, तेषाम् उपरि रङ्गम् अबीरं च प्रक्षिपन्ति लेपयन्ति च।
- सर्वे जनाः प्रेम्णा मिलन्ति।
- अस्मिन् पर्वणि पारस्परिकः द्वेषः शत्रुता च नश्यति, स्नेहस्य सञ्चारः च भवति।
22. विजयदशमी [2006,07]
- विजयदशमी भारतस्य प्रमुखः उत्सवः अस्तिः।
- इदं कथ्यते यत् अस्मिन्नेव मर्यादापुरुषोत्तमः रामः रावणं हत्वा स्वभार्या सीतां रावणबन्धनात् अमुञ्चत्।
- तदा अयोध्यावासिनः प्रसन्ना: भूत्वा इमम् उत्सवम् आयोजितवन्तः।
- प्रमुखरूपेण अयम् उत्सवः क्षत्रियाणाम् उत्सवः भवति।
- अस्मिन् अवसरे ग्रामे-ग्रामे । नगरे–नगरे रामलीलायाः आयोजनं भवति।
- रामलीलायां मर्यादापुरुषोत्तमस्य रामस्य आदर्श जीवनं प्रदर्शयति।
- रावण: अन्यायस्य दुराचारस्य च प्रतीकः आसीत्।
- श्रीराम: मर्यादायाः सत्यस्य च प्रतीक आसीत्।
- अयम् उत्सवः अन्यायस्योपरि न्यायस्य विजयः अस्ति।
- दानवतायाः उपरि मानवतायाः विजयः अस्ति।
23. मम प्रियं पुस्तकम्
[सम्बद्ध शीर्षकः-वाल्मीकि-रामायणम्]
- आदिकविना वाल्मीकि महर्षिणा विरचितं ‘रामायणम्’ मम अति प्रियं पुस्तकम् अस्ति।
- इदं संस्कृतभाषायाः प्रथमं काव्यम् अस्ति।
- अस्मिन् ग्रन्थे भगवतः श्रीरामचन्द्रस्य शक्ति-शील-सौन्दर्याणाम् अति सरलायां भाषायां विस्तृतं वर्णनमस्ति।
- अस्मिन् ग्रन्थे श्रीराम: मानवानामादर्शरूपेण वर्णितः।
- सः आदर्शः पुत्रः, आदर्श: भ्राता, आदर्शः पतिः, आदर्श: राजा च आसीत्।
- सः पितुः आज्ञया चतुर्दशवर्षाणि वने न्यवसत्, रावणं च हत्वा पापानि अनाशयत्।
- अस्मिन् ग्रन्थे प्राकृतिकं वर्णनम् अपि अतिशोभनं वर्णितम्।
- अयं ग्रन्थः जनान् आदर्श जीवनं यापयितुं प्रेरयति।
- अहमपि अस्माद् ग्रन्थात् आदर्श जीवनस्य शिक्षां लभे।
- अयं ग्रन्थः मह्यम् अतीव रोचते।
24. ममः प्रियः कविः [2006,07,08, 09, 10, 11, 12, 13,14]
[सम्बद्ध शीर्षकः–कालिदासो महान् कविः (2010), कविकुलगुरुः कालिदासः(2012),महाकविः कालिदासः (2007, 12, 13,14)]
- कालिदासः संस्कृतसाहित्यस्य महाकविः अस्ति।
- संस्कृतसाहित्ये एवं न, अपितु विश्वसाहित्ये अस्य उच्चस्थानम् अस्ति।
- अस्य महाकवेः जीवनस्य विषये किमपि निश्चितं न ज्ञायते।
- अनुमानतः अस्य जन्म ईसापूर्वं द्वितीयशतके उज्जयिन्याम् अभूत्।
- अयं राज्ञः विक्रमादित्यस्य सभाया: नवरत्नेषु एकं रनम्। आसीत्।
- अयं रघुवंशं कुमारसम्भवं चेति द्वे महाकाव्ये, मेघदूतं ऋतुसंहारञ्चेति द्वे गीतिकाव्ये, विक्रमोर्वशीयं मालविकाग्निमित्रम् अभिज्ञानशाकुन्तलम् चेति त्रीणि नाटकानि अरचयत्।
- अभिज्ञानशाकन्तुलम् अस्य अनुपमं नाटकम् अस्ति।
- उपमायाः प्रयोगे सः अतीव विशिष्टः अस्ति।
- ‘उपमा कालिदासस्य इत्याभणक: अति प्रसिद्धः अस्ति।
- तस्य शैली अतीव मनोहारिणी, भाषा च सरसा, कोमला, प्रसाद-गुणयुक्ता च आसीत्।
- अस्य प्रकृतिचित्रणम् अपि अद्वितीयम् अस्ति।
- अस्य काव्येषु सर्वत्र सरसा: सूक्तयः प्राप्यन्ते।
- अस्य काव्यनाटकेषु आसमुद्रं भूस्थानानि वर्णितानि सन्ति
25. राष्ट्रपिता महात्मा गान्धि [2006, 12, 13,14]
[सम्बद्ध शीर्षकः–महापुरुषस्य जीवनम्]
- महात्मागान्धि एकः सदाचारशीलः, सत्यनिष्ठः, अहिंसाव्रती, देशभक्तश्च महापुरुषः आसीत्।
- तस्य जन्म एकोनसप्तत्यधिकाष्टादशशततमे ईसवीयाब्दे अक्टूबरमासस्य द्वितारिकायां गुजरात-प्रान्तस्य पोरबन्दरनगरे अभवत्।
- अस्य पितुः नाम कर्मचन्द: गान्धि, मातुश्च नाम पुतलीबाई इत्यासीत्।
- सः सत्यप्रियः अहिंसायाः पालकश्च बाल्यादेवासीत्।
- सः विधिशास्त्रं पठितुम् आङ्ग्लदेशं गतः।
- तत्र निवसतः अपि तस्योपरि विदेशीय सभ्यतायाः प्रभाव: नाभवत्।
- अफ्रीकादेशं गत्वा सत्याग्रहान्दोलनेन अयं तत्र भारतीयेभ्यः अधिकारान् अदापयत्।
- ततः स्वदेशं प्रत्यागत्य सः भारतस्य स्वतन्त्रतायै अहिंसात्मकम् आन्दोलनम् आरब्धवान्।
- अहिंसात्मकेन आन्दोलनेन एव सः भारतं पारतन्त्र्य-पाशात् स्वतन्त्रम् अकरोत्।
- सः हरिजनानाम् उद्धाराय आजीवनं प्रायतत।
- अतः भारतीयाः एनं ‘बापू’ ‘राष्ट्रपिता’ वा इति अभिधातुमारब्धवन्तः।
- अस्माकं कर्त्तव्यं यत् वयं महात्मन: गान्धिनः मार्गम् अनुसरेम।
26. गौः
[सम्बद्ध शीर्षकः—गोपालनम्, मदीया गौः, गोसेवा (2014)]
- गौः एकः अति सरल: स्वभावः पशुः अस्ति।
- अस्याः द्वौ कण, द्वौ शृङ्गौ, एकं पुच्छ, चत्वारः स्तनाः, चत्वारः पादाश्च भवन्ति।
- गौः सस्नेहं घासं खादति मिष्टं दुग्धं च ददाति।
- धेनोः दुग्धेन देवानां पूजा भवति, घृतेन च हवनं पूर्णं भवति।
- अस्याः मूत्रं महद् औषधम् अस्ति।
- अस्याः गोमयलेपनेन च रोगा: विनश्यन्ति।
- अस्या गोमयेन कृषे: कार्यं भवति, इन्धनं च भवति।
- अस्याः वत्सा: वृषभाः भवन्ति, हलं च कर्षन्ति।
- शिशवः तस्याः मधुरं दुग्धं पीत्वा हृष्टाः पुष्टाः च भवन्ति, तेषां बुद्धिश्च निर्मला भवति।
- प्राचीनकाले ऋषयः धेनूनां पालनमकुर्वन्।
- धेनुः माता इव मान्या, वन्द्या च भवति; अतः जनाः तां गौमाता इति कथयन्ति।
27. राष्ट्रियपक्षी मयूरः
- अस्माकं देशे भारतवर्षे राष्ट्रियवैशिष्ट्ययुक्तानि कानिचित् प्रतीकानि स्वीकृतानि सन्ति।
- तेषु मयूरः राष्ट्रियपक्षिरूपेण स्वीकृतोऽस्ति।
- मयूरोऽतीव शोभन: पक्षी भवति।
- अस्य पक्षा: विधात्री अनेकवर्णाः सौन्दर्ययुक्ताश्च निर्मिताः।
- वर्षाकाले यदा गगनं मेचकैः मेघेः आच्छादितं भवति, तदा अयं स्वपक्षान् सर्वत: प्रसार्य नृत्यति तदा वने अति भव्यं दृश्यं भवति।
- अस्य पक्षिणः धार्मिकम् अपि महत्त्वम् अस्ति।
- कार्तिकेयस्य वाहनं मयूर एव अस्ति।
- भगवान् कृष्णः मयूरस्य पक्षैः निर्मितं मुकुटं धारयति।
- मयूरस्य अतिमनोहारि रूपं दृष्ट्वा एव भारतीयशासनेन मयूरः राष्ट्रियः पक्षी स्वीकृतः।
- अयं स्वनर्तनेन सौन्दर्येण केकास्वरेण च जनानां मनांसि विनोदयति।
- अयं मानवशत्रून् सर्पादीन् व्यापाद्य प्राकृतिक सन्तुलनं सम्पादयति।
- सर्वैः सह मधुरम् आलापनीयं मधुरं व्यवहर्तितव्यम्, परं ये राष्ट्रद्रोहिणः, अत्याचारपरायणाः राष्ट्रियाखण्डतायाः ऐक्यस्य च विनाशकाः ते सर्पतुल्याः मयूरेण इव राष्ट्रेण व्यापादयितव्याः।
- अतः अस्माभिः मयूरः सदा संरक्षणीयः संवर्धनीयश्च।।
28. यौतुकम्। [2006]
[सम्बद्ध शीर्षकः–यौतुकप्रथा (2009)]
- कन्यायाः विवाहे कन्यापक्षात् वरपक्षाय यद् धनं वस्तुजातं वा दीयते, तदेव यौतुकम् कथ्यते।
- प्राचीनकाले कन्यायाः विवाहे उपहारदानस्य प्रथा प्रचलिता आसीत्, परमियं प्रथा सम्प्रति दोषपूर्णा अभवत्।
- अधुना तु वरस्य योग्यतानुरूपं, निश्चितं धनम् अनिवार्यरूपेण बलात् देयं भवति।
- यदि यौतुके काचित् न्यूनता भवति, तदा पत्युगृहे वधूः प्रताडिता भवति।
- धनलोलुपाः केचित् नरपिशाचा: वधूनां प्राणान् अपि हरन्ति।
- एतस्यायं परिणामः अभवत् यदि कन्यायाः पिताः निश्चितं यौतुकं दातुमशक्तः भवति तदा तस्य दुहिता अपरिणीता स्वगृहे तिष्ठति।
- प्रभूतं यौतुकं दत्वा अपि माता-पितरौ कन्यायाः सुखविषये विश्वस्तौ न भवतः।
- प्रतिदिनं वध्वाः यातनायाः वधस्य च समाचाराः श्रूयन्ते।
- यौतुककारणात् अति भयङ्करान् परिणामान् दृष्ट्वा अपि जनाः अस्य अवरोधाय न यतन्ते।
- एवमेनुभूयते यत् अस्माकं समाज: पतनोन्मुखः सन् यौतुकसुरसामुखे पतिष्यति।
- अत: इमं समाजमुखात् इमं कलङ्क परिमाष्टुम् अवश्यं प्रयतनीयम्।
29. दूरदर्शनम् [2005,06,08, 09]
- आधुनिकेषु विज्ञानस्य आविष्कारेषु दूरदर्शनं नाम एतादृशं यन्त्रम् आविष्कृतं, येन वयं दूरस्थम् अपि दृश्यं सम्मुखमिव पश्यामः।
- एतस्य सहाय्येन वयं सुदूरस्थेषु देशेषु घटिताः घटना: प्रत्यक्षमिव पश्यामः नेतृणां भाषणानि शृणुमः।
- अधुना इदं मनोरञ्जनस्य विज्ञापनस्य वा प्रमुखतमं साधनं जातम्।
- वयं स्वगृहे उपविष्टा एव देशविदेशीयानां क्रीडनानां प्रतियोगिताः सुखेन पश्यामः, स्वगृहे एव पर्यस्योपरि समासीनाः चलचित्रदर्शनस्यानन्दमनुभवामः।
- एवं दूरदर्शनं मनोरञ्जनं करोति ज्ञानं च वर्धयति।
- दूरदर्शनयन्त्रं श्वेतश्यामम् अनेकवर्णं च उपलभ्यते।
- अनेकवणे दूरदर्शनयन्त्रे दृश्यानि स्वाभाविकरूपेण दृश्यन्ते।
- दूरदर्शने अनेके दोषाः अपि समुत्पन्नाः।
- अस्य कार्यक्रमेषु कानिचित् अभद्राणि दृश्यानि अपि दृश्यते, येन अपरिपक्वबुद्ध्यः बालकाः विकृतिं प्राप्नुवन्ति।
- अतः अश्लीलदृश्यानां प्रदर्शनं परिहरणीयम्।
- दूरदर्शने ते एव कार्यक्रमाः प्रदर्शनीयाः ये सामाजिक दृष्ट्या सत्प्रेरणादायकाः स्युः।
30. पर्यावरणम् [2006, 08, 12, 13, 14]
[सम्बद्ध शीर्षकः-पर्यावरणस्य महत्त्वम्, पर्यावरणस्य संरक्षणस्य उपायाः (2010,11), पर्यावरण-प्रदूषणम् (2010, 11, 12, 13, 14, 15), पर्यावरण-समस्या (2006), पर्यावरण शोधनोपायाः (2011), पर्यावरण-सन्तुलनम् (2013, 14)]
- प्रकृत्याः तत्त्वजातं परितः आवृत्य संस्थितम्। अस्मात् कारणात् तत्पर्यावरणं कथ्यते।
- कस्यापि देशस्य प्राकृतिकं यद् वातावरणं, तदेव तद्देशस्य पर्यावरणमुच्यते।
- मृत्स्ना-जल-वायु-वनस्पति-खग-मृगकीट-पतङ्ग-जीवाणवः एते पर्यावरणस्य घटकाः सन्ति।
- स्वस्थं पर्यावरणमेव स्वस्थजीवनस्य आधारः अस्ति।
- पर्यावरणे मानवसमाजे च सन्तुलनेन मानव-समाजस्य विकासः भवति।
- असन्तुलितं विकृतं च पर्यावरणं मानवीय स्वास्थ्यं विनाशयति।
- सम्प्रति वैज्ञानिके युगे नवीनानाम् उद्योगानां विकासात् पर्यावरणम्, असन्तुलितं विकृतं च अभवत्।
- प्रदूषणं शोधयितुं शासनेन महान्तः प्रयासाः क्रियन्ते।
- वृक्षारोपणैः संरक्षणैश्च पर्यावरणं शुद्धं भवति।
- अस्माभिरपि पर्यावरणं शोधयितुं यथाशक्यं प्रयासः कर्तव्यः।
- पर्यावरणे शुद्धे जाते वयं सुखेन जीवितुं शक्नुमः।
31. तीर्थराजः प्रयागः [2008, 15]
[सम्बद्ध शीर्षकः-प्रयाग-वर्णनम् (2011,14), प्रयाग-नगरम् (2012)]
- प्रयागः सर्वेषु तीर्थेषु श्रेष्ठः अस्ति; अतः अयं तीर्थानां राजा तीर्थराजः अस्ति। अत्र ब्रह्मा श्रेष्ठं यागम् अकरोत्।
- प्राचीनकालेऽत्र बहवः अश्वमेधादयः यज्ञाः सम्पन्नाः अभवन्, अतोऽस्य नाम प्रयागोऽस्ति।
- अकबरः अस्य नाम स्वकीयस्य इलाहीधर्मस्य अनुसारेण इलाहाबाद’ इति अकरोत्।
- प्रयाग: उत्तरप्रदेशराज्येऽस्ति।
- अत्र एव गङ्गा-यमुना-सरस्वतीनां तिसृणां नदीनां सम्मेलनं भवति।
- आसां नदीनां पवित्रे सङ्गमे अनेकलक्षाः जनाः स्नानं कुर्वन्ति, आत्मानं च पावयन्ति।
- प्रतिद्वादशवर्षम् अत्र कुम्भपर्वः भवति।
- अस्मिन् पर्वणि देशस्य सुदूरेभ्यः भागेभ्यः आगत्य तीर्थयात्रिणः सङ्गमे स्नानं कुर्वन्ति।
- प्रयागः विविधविद्यानां प्रमुख केन्द्रम् अस्ति।
- अत्र प्रयाग-विश्वविद्यालये ज्ञानविज्ञानादीनां शिक्षा दीयते।
- यत्र सहस्रशः विद्यार्थिन: ज्ञानार्जनाय सुदूरेभ्यः देशेभ्यः आगच्छन्ति।
- उत्तरप्रदेशराज्यस्य उच्चन्यायालयः, माध्यमिक शिक्षा परिषद्, हिन्दी-साहित्य सम्मेलनम्, प्रसिद्धम् आनन्दभवनम् च अत्र विराजन्ते।
- भारतवर्षस्य त्रयः प्रधानमन्त्रिणः अत्र जन्म अलभन्त।
- महाकविः कालिदासः अपि अस्य नगरस्य महिमानम् अवर्णयत्।
32. अनुशासनम् [2009, 12]
[सम्बद्ध शीर्षक: अनुशासनस्य महत्त्वम्]
- निर्धारितानां नियमानां पालनं, गुरूणामाज्ञानुपालनं च अनुशासनं कथ्यते।
- अनुशासनेन व्यक्तेः, समाजस्य देशस्य च उन्नतिर्भवति।
- मानवजीवने अनुशासनस्य महती आवश्यकता अस्ति।
- अनुशासनेन मार्गेषु यानानि सुरक्षितानि चलन्ति, जनाः च स्वगृहेषु निर्भया: वसन्ति।
- अनुशासनं विना जीवनं दुःखमयं विघ्नमयं च भवति।
- यदा मानवः अनुशासनं त्यजति, तदा विविधानि कष्टानि स्वयम् आगच्छन्ति।
- प्रकृतिजीवनेऽपि अनुशासनं दृश्यते।
- सूर्यचन्द्रौ यथासमयम् उदयेते, अस्तं च गच्छतः।
- आकाशे अनेकानि नक्षत्राणि अनुशासनेन एव स्वमार्गे परिभ्रमन्ति।
- जलधिः अनुशासनेन एव स्वसीमानं न लङ्घयते।
- अनुशासनमुल्लङ्घ्य प्रकृति: यदा आचरति, तदा अनिष्टं भवति।
- अनुशासनहीनानां जनानां जीवनं नारकीयं घृणास्पदं च भवति।
- अनुशासिताः जनाः सर्वेषां प्रियाः भवन्ति, निरन्तरम् उन्नतिं च कुर्वन्ति। \
- अतः वयं सदा अनुशासिताः भवेम।
33. वन-सम्पद् [2006,09]
[सम्बद्ध शीर्षकः–वनस्यमहत्त्वम्।]
- वनेषु वृक्ष-लता-तृण-गुल्मादिकं यदपि भवति सा वनसम्पद् भवति।
- कस्यापि देशस्य सम्पत्सु वनसम्पदा महत्स्थानम् अस्ति।
- यत्रदेशे वनानि न सन्ति, सः देश: निर्धनः भवति।
- अस्माकं देशे बहूनि वनानि सन्ति।
- विविधानां तरूणां, सुपुष्पान्वितानां लतानां, खगानां, मृगाणाम्, औषधीनां रूपेण महती वनसम्पत् अस्माकं देशे अस्ति।
- वनेषु विविधाः वृक्षाः सुपुष्पिता: लता: कूजन्तः पक्षिणः अस्माकं मनांसि मोहयन्ति।
- वनेभ्यः प्रभूतं काष्ठं, फलानि, औषधयः, खनिजाः पदार्थाः च उपलभ्यन्ते।
- वनेभ्यः एव आक्सीजनं नामा प्राणवायुः अपि प्राप्यते, येन प्राणिनः जीवनं धारयन्ति।
- वृक्षाणां काष्ठैः गृहाणि बहूनि काष्ठोपकरणानि च अपि निर्मीयन्ते।
- बहवः उद्योगाः काष्ठनिर्भराः सन्ति।
- परन्तु वयं अज्ञानात्। अल्पलोभाच्च वृक्षाणां कर्त्तनैः वनानि विनाशयामः।
- वनसम्पदां रक्षणाय वयं वृक्षान् न कर्त्तयेम।
- जीवनं निहितं वने” इत्युक्त्वा वनानां रक्षणं मानवजीवनम् रक्षणम् अस्ति।
34. मम विद्यालयः
[सम्बद्ध शीर्षकः–युष्माकं विद्यालयः, अस्माकं विद्यालयः (2006, 08, 10, 11, 12, 13, 15), विद्यालयः (2011)]
- मम विद्यालयः नगरस्य पूर्वस्यां दिशि स्थितः नगरस्य श्रेष्ठः विद्यालयः अस्ति।
- मम विद्यालये पञ्चत्रिंशत् कक्षा द्विसहस्र छात्राः च सन्ति।
- विद्यालये एकः विशालः सभागारः अस्ति।
- अस्मिन् कक्षे विद्यालयस्य विभिन्नोत्सवाः आयोजयन्ति।
- मम विद्यालये एकः पुस्तकालयः, एक: वाचनालयः, षड् प्रयोगशाला: च सन्ति; यत्र छात्राः अधीयन्ते।
- अत्र सर्वे गुरुजना: परिश्रमेण पाठयन्ति।
- छात्राः अनुशासनमनुसरन्तः अध्ययनं कुर्वन्ति।
- मम विद्यालयस्य परीक्षा परिणामः सदैव शत-प्रतिशतं भवति।
- क्रीडाक्षेत्रेऽपि मम विद्यालयस्य ख्यातिः अस्ति।
- अस्मिन् विद्यालये पठित्वा अहं कथं गर्वं न अनुभविष्यामि?
35. छात्रजीवनम्
[सम्बद्ध शीर्षकः-विद्यार्थि-जीवनम् (2011,12)]
- अस्माकं पूर्वजाः मानवजीवनं चतुषु भागेषु विभाजितम् अकरोत्।
- पञ्चविंशति वर्षपर्यन्तं ब्रह्मचर्याश्रमः कथ्यते।
- इयमेव जीवनं छात्र-जीवनम् अस्ति।
- अस्मिन् काले मनुष्यः स्व-इन्द्रियाणि नियम्य विद्याध्ययनं कुर्यात्।
- छात्राः सदैव अनुशासिताः भवेयुः।
- विनयः छात्राणाम् आभूषणम्।
- विनीत: छात्रः सर्वेषां प्रियः भवति।
- विद्यायाः सर्वोत्तमः लाभ: विनय एव अस्ति।
- विनीत: छात्र: स्वविनयेन सर्वत्र सफलतां प्राप्नोति।
- छात्राणां गुणं शास्त्रेषु एव वर्णित:
काक चेष्टा वको ध्यानं, श्वान निद्रा तथैव च।
अल्पाहारी गृहत्यागी, विद्यार्थी पञ्चलक्षणम् ॥
36. अयोध्यावर्णनम्
- अयोध्या एका धार्मिका नगरी अस्ति।
- दशरथः अस्याः राजा आसीत्।
- दशरथात्पूर्वमपि अत्र अनेके सूर्यवंशीयाः नृपाः अभवन्।
- ये पुत्रवत् प्रजाम् अपालयन्।
- अस्यामेव नगर्यां श्रीरामस्य रूपे भगवान् विष्णुः अवतरितवान्।
- श्रीरामः मानवजीवनस्य सर्वाः मर्यादाः अपालयत्।
- यत् कार्यं केनापि पुत्रेण न कृतः तत् श्रीरामेण कृतः।
- इयं नगरी भगवतः रामस्य जन्मस्थली क्रीडाभूमिश्च अस्ति।
- अयोध्या निकटे एवं सरयू नदी वहति, यस्याः वर्णनं रामायणेऽस्ति।
- अत: इयं नगरी तीर्थस्थानेषु विख्याता अस्ति।
37. अस्माकं प्रधानाचार्यः [2014]
- अहं श्रीमालवीय माध्यमिक विद्यालये पठामि।
- अयं विद्यालयः नगरात् बहिरस्ति।
- विद्यालयस्य प्रधानाचार्यः श्रीसदाशिव मिश्रः एकः आदर्श: प्रधानाचार्यः अस्ति।
- स: सहकर्मीन् अध्यापकान् स्वानुजान् इव व्यक्हरति।
- तस्य व्यवहारेण सर्वे गुरवः तम् अग्रज इव आदरं कुर्वन्ति।
- प्रार्थनास्थले छात्राः तस्य भाषणम् आदरपूर्वकं शृण्वन्ति।
- नगरेऽपि अस्माकं प्रधानाचार्यः सर्वत्र समादृतः अस्ति।
- तस्यैव प्रयासेन अस्माकं विद्यालयः अनुशासने शीर्षस्थः अस्ति।
- सर्वे छात्राः अध्यापकाश्च मानयन्ति यत् विद्यालयस्य उन्नतिः अस्माकमेव उन्नति अस्ति।
- वयं स्वप्रधानाचार्ये गर्वः अस्ति।
38. गङ्गा नदी
- गङ्गाया अखिलविश्वस्य नदीषु महत्त्वपूर्णं स्थानं वर्तते।
- सुरधुनीयम्, भागीरथी, विष्णुनदी, जाह्नवी आदि अस्याः अन्यानि नामानि सन्ति।
- गङ्गा हिमालयात् नि:सृता।
- भारतवर्षस्य धरित्रीं शस्यश्यामला निर्मातुं गङ्गायाः उपकारः अनिर्वचनीयः।
- भारतवर्षस्य अनेकानि प्रमुखानि नगराणि अस्याः तटे स्थिताः सन्ति।
- गङ्गायाः पावने कूले अमेकानि तीर्थस्थानामि सन्ति।
- गङ्गोदकं स्वच्छं शीतलं, तृषीशामकं, रुचिवर्द्धकं, सुस्वादु, रोगापहारि च भवति।
- गङ्गायाः जले कीटाणवः न जायन्ते।
- जना इमां ‘गङ्गामाता इति सम्बोधयन्ति।
- अद्य मानव: अज्ञानवशात् प्रमादात् च सर्वकल्याणकारिणीं गङ्गां प्रदूषयति।
39. राष्ट्रिय-एकता
- विविध धर्म-भाषावलम्बिनां जनानां वासस्थानं राष्ट्रं भवति।
- परन्तु धर्म-भाषा-वैविध्येऽपि एकस्मिन् राष्ट्रे वसन्तः जनाः अभिन्ना एव भवन्ति।
- यथा एकस्मिन् गृहे वसन्त: बहवः जनाः पृथक् वस्त्राभूषणानि धारयन्ति पृथगेव चिन्तयन्ति च।
- परं मूलत: ते एकस्यैव गृहस्यैव अङ्गानि भवन्ति। अत: अभिन्नाः एव तिष्ठन्ति।
- एवमेव वयं स्वराष्ट्रे वसन्तः पृथक् भाषा-भाषिणः, पृथक् धर्मावलम्बिनः, पृथक् विचारानुयायिनः। सन्त: अपि अभिन्नाः एव।
- यतो हि भारतम् अस्माकं राष्ट्रं वयं च अस्य राष्ट्रस्य नागरिकाः।
- राष्ट्रं यदि सुरक्षितम् अस्ति तर्हि वयमपि निस्सन्देहं सुरक्षिताः।
- राष्ट्रं यदि विकसितं तर्हि अस्माकमपि विकासः सुनिश्चित: एव।
- अतः अस्माकं सर्वेषां भारतीयानाम् इदं प्रथमं कर्त्तव्यम् अस्ति यद् राष्ट्रियैक्यस्य बाधकानि तत्त्वानि निवारयेम राष्ट्रियाम् एकतां च पोषयेम।
- एतेनैव राष्ट्रस्य अस्माकं सर्वेषां च समुन्नतिः समृद्धिश्च सुनिश्चिता।
40. वसुधैव कुटुम्बकम्
- विश्वस्य स्रष्टा ईश्वरः एकः एव अस्ति।
- सर्वे प्राणिनः च तस्य तनया: सन्ति।
- अतः विश्वस्य सर्वेषु भागेषु स्थितीः जनाः रूप-वर्ण-भाषा-संस्कृति भेदान् धारयन्तः अपि अभिन्नाः एव।
- यतोहि सर्वेषां मूलप्रवृत्तयः समाना: एव; यथा–एकः जनः सम्माने सुखम् अपमाने च दुःखम् अनुभवति तथैव अन्येऽपि।
- अतः श्रेष्ठः जनः सः एव यः सर्वेषु प्राणिषु समानं व्यवहारं करोति, सर्वेषु स्निह्यति न कमपि पीडयति।
- अद्य तु विज्ञानस्य प्रभावेण देशकालयोः अन्तरं प्रायः समाप्ति गतम्।
- भारत स्थितः जनः विदेशेषु स्थितानां जनानां समाचार प्रतिदिनं प्राप्नोति दूरभाषेण च वार्ती करोति।
- दूरदर्शनेन तु सर्व विश्वं करतलस्थितमेव जातम्।
- एतस्य सहयोगेन कुत्रचिदपि घटितां घटनां क्षणादेव वयं ज्ञातुं समर्थाः भवामः।
- अत: उपर्युक्तस्थितौ विश्वबन्धुत्वस्य भावनायाः महती आवश्यकता अस्ति।
- अत: महर्षिभिः उक्तम्- उदारचरितानां तु वसुधैव कुटुम्बकम्।
41. परिवारकल्याणम् [2006]
[सम्बद्ध शीर्षकः–जनसङ्ख्या -समस्या (2007,08, 11,14), जनसङ्ख्या -विस्फोटः (2007, 10, 11, 15),परिवार-नियोजनम् (2011)]
- परिवार कल्याणार्थम् इदम् आवश्यक यत् व्ययः आयात् अल्पतरो भवेत्।
- यदि परिवारे सदस्यानां सङ्ख्या विशाला स्यात् तर्हि तेषां पालनाय महान् आयः अपि अल्पतरः एव।
- अतः परिमित-सदस्यानां परिवारः एव सुखी भवति।
- परिवारस्य परिमित्यर्थ प्राचीनकालेऽपि अनेक उपायाः प्रचलिताः आसन्। तेषु इन्द्रियसंयमः मुख्यः आसीत्।
- अस्मिन् भोगविलासयुगे इन्द्रिय-संयमः नास्ति सुकरः।
- अतएव अस्मिन् युगे परिवार-परिमित्यर्थं बहवः वैज्ञानिकाः उपायाः आविष्कृताः सन्ति।
- तेषु गर्भ: रोधकानाम् ओषधीनां प्रयोग: वन्ध्याकरणं च इमौ द्वौ उपायौ मुख्यौ स्तः।
- किन्तु शिक्षाभावात् सामान्यजना: परिवार नियोजन नाङ्गीकुर्वन्ति।
- केचित् राजनीतिक-नेतारः अपि अस्मिन् विषये बाधकाः भवन्ति।
- यदि अस्माकं देशवासिन: परिवार-निरोधं स्वेच्छया न स्वीकुर्वन्ति तर्हि प्रकृतिः अस्माकं नियोजनं करिष्यति।
- अत: अस्माकं सर्वेषाम् इदं कर्त्तव्यं यद् वयं परिवार-निरोधाय मनुष्यान् प्रेरयाम।
42. विद्यालयमहोत्सवः [2009]
[सम्बद्ध शीर्षकः–स्वतन्त्रता दिवसः (2009)]
- अगस्त-मासस्य पञ्चदशे दिनाङ्के अस्माकं देशः स्वतन्त्रः अभवत्।
- अस्मिन् दिने सम्पूर्ण-भारते स्वतन्त्रता दिवसस्य उत्सवः भवति।
- अस्माकं विद्यालये अयं वार्षिक-महोत्सवरूपेण भवति।
- अयम् उत्सवः अगस्तमासस्य प्रथम-दिनाङ्केतः प्रारभते।
- दिने प्रतिदिनं बहुविधाः क्रीडा-प्रतियोगिताः भवन्ति।
- अस्माकं मुख्य: उत्सवः पञ्चदश-दिनाङ्के भवति।
- अस्मिन् दिने अनेके यान्याः अतिथयः आगच्छन्ति।
- प्रात:काले प्रधानाचार्यः ध्वजारोहणं करोति।
- सन्ध्या-काले एका विशाला सभा आयोज्यते।
- छात्रा: सांस्कृतिका कार्यक्रमान् प्रस्तुतवन्ति।
- प्रधानाचार्यः छात्रेभ्यः मिष्टान्नानि पुरस्कारान् च वितरन्ति।
- एवम् अयं स्वतन्त्रता दिवस: विद्यालय-महोत्सवः च सम्पन्नः भवति।।
43. क्रिकेट-क्रीडनम्
- भारते क्रीडायाः प्रथा अतिप्राचीना वर्तते।
- क्रिकेट-क्रीडनम् कन्दुक-क्रीडायाः स्वरूपम् अस्ति।
- इदं क्रीडनं यष्टिभिः कन्दुकः-ताडनारूपे प्रचलितम् अस्ति।
- सम्प्रति बहुविधानि क्रीडनानि प्रचलितानि सन्ति।
- तेषु क्रिकेट-क्रीडनम् अति लोकप्रियम् अस्ति।
- विदेशेषु अपि अस्य क्रीडनस्य अति प्रचलनम्। अस्ति।
- प्रायः विश्वस्य सर्वेषु देशेषु इदम् क्रीडनम् क्रीड्यते।
- समयानुसारं अन्ताराष्ट्रिया क्रिकेट प्रतियोगितापि आयोज्यते।
- क्रिकेट-क्रीडनेन शरीरं स्वस्थ स्फूर्तियुक्तं च भवति।
- एतेन स्पर्धा सहयोग-भावना च वर्धेते।
- सम्प्रति सहयोग-भावनायाः परमावश्यकता वर्तते।
- क्रिकेट-क्रीडनेन सम्प्रति देशस्य युवकानां स्वास्थ्य-विकासः भवति।।
44. अस्माकं प्रधानमन्त्री
- भारतः एकः राष्ट्रः अस्ति।
- कस्यापि राष्ट्रस्य एकः प्रधानमन्त्री भवति।
- भारतराष्ट्रस्य अपि एक: प्रधानमन्त्री अस्ति।
- अस्माकं प्रधानमन्त्री श्री नरेन्द्रः दामोदरदास: मोदी महाभागः अस्ति।
- सः महान् राष्ट्रभक्तः अस्ति।
- सः महान् राजनीतिज्ञः अस्ति।
- नरेन्द्रः दामोदर-दासः मोदी महोदयः कुशल प्रशासकः अस्ति।
- अयं देशम् उन्नतिमार्गं नेतुं प्रयत्नशीलः अस्ति।
- अस्माकं प्रधानमन्त्रिणः विदेशनीति, गृहनीति, अर्थनीति, सुदृढा सन्ति।
- अयम् एकः सक्षम: प्रधानमन्त्री अस्ति।
45. धर्मः
[सम्बद्ध शीर्षकः-धर्मेण हीनाः पशुभिः समानाः]
- धर्मः कश्चित् लोकोत्तर: आध्यात्मिकः गुणः अस्ति।
- धारणात् धर्मः इत्युच्यते।
- धर्मः मानवस्य सदैव संरक्षकः अस्ति।
- यः धर्मं रक्षति धर्मः तं रक्षति।
- धर्मः एव मानवेषु एक: विशिष्टः गुणः अस्ति।
- धर्मेण हीनः जनः पशो: तुल्यः भवति।
- धर्मः सदैव पालनीयः भवति।
- स्वधर्मः एव श्रेष्ठः भवति।
- धर्मस्य परिभाषा कर्तुम् अशक्या।
- मानवैः धर्मः सदैव रक्षणीयः पालनीयश्च।
46. धैर्यम्। [2008]
[सम्बद्ध शीर्षकः-त्याज्यं न धैर्यं विधुरेऽपि काले]
- धैर्यम् एकः अद्भुत: गुणः अस्ति।
- धीरः सर्वं विधातुं समर्थः अस्ति।
- अधीर: स्वकार्यं विनाशयति।
- धैर्येण असाध्यमपि कार्यं सरलं भवति।
- धैर्यमवलम्ब्य मानवः स्वकार्यं साधयेत्।
- मानव-जीवने धैर्यस्य महत्त्वपूर्ण स्थानं स्वीकृतम्।
- मानवः धैर्यं कदापि न त्यजेत्।
- धैर्यं विना जीवनं दु:खमयं कष्टमयं च भवति।
- विपत्सु अपि धैर्यं सज्जनाः न परित्यजन्ति।
- वयमपि धीराः भवेम।
47. प्रियः अध्यापकः [2006,07]
- य: अध्यापयति स: अध्यापकः भवति।
- मम विद्यालये अनेके अध्यापकाः सन्ति।
- सर्व एव अध्यापका समानाः न भवन्ति।
- छात्रेषु कश्चित् एव प्रियतमः प्राप्तसम्मानः भवति।
- मम अपि श्री कमलेश कुमार जैन: प्रिय: अध्यापकः अस्ति।
- छात्राः तं सर्वाधिकं सम्मन्यन्ते।
- सः वस्तुतः अस्ति सम्मानस्य योग्यः।
- सः सौम्य: व्यवहारकुशल: उदारः स्वविषये च निष्णातः अस्ति।
- सवें अध्यापका: छात्रा: अन्ये कर्मचारिणश्च श्री जैन: सम्मानं कुर्वन्ति।
- सः छात्रेभ्यः अति रोचते, अत: ममापि सः प्रियः अध्यापकः अस्ति।
48. विज्ञानयुगम्
[सम्बद्ध शीर्षकः-विज्ञानस्य उपयोगिता]
- वर्तमानयुगं विज्ञानयुगम् अस्ति।
- विशिष्टज्ञानं विज्ञानम् अस्ति।
- अस्मिन् युगे विज्ञानं विना कार्यं न सम्भवम्।
- विद्युत-व्यजनं, विद्युत-शकटिका, आकाशवाणी, दूरदर्शनादीनि प्रमुखानि वैज्ञानिक अनुसन्धानानि सन्ति।
- आधुनिकयुगे इमानि साधनानि अति आवश्यकानि वर्तन्ते।
- मानवजीवने विज्ञानस्य एवं प्रधानता अस्ति।
- विज्ञानबलेन अद्य असम्भवम् अपि सम्भवं भवति।
- अधुना विज्ञानबलेन एव मनुष्यः चन्द्रादि लोकं गच्छति।
- विज्ञानस्य प्रसादेनैव पोतेन नदी समुद्राः च तरामः।
- वयं विज्ञानप्रभावेन आकाशे स्वच्छन्दं भ्रमामः।